Diwali Puja Vidhi in Hindi

दीपावली पूजन विधि || Diwali Puja Vidhi in Hindi

त्यौहार

दीपावली पूजा विधि॥ Diwali Puja Vidhi in Hindi

दीपावली पूजन विधि बताइए –

शुभ दीपावली पांच दिन मनायी जाती है। दीपावली पूजा विधि (Diwali puja vidhi in hindi) निम्नवत है।

1. धनतेरस के दिन धनवंतरी देवता के पूजन का विधान होता है, हिन्दू मान्यता के अनुसार इस दिन टूटे फूटे बर्तन बदलने और नए बर्तन खरीदने का विधान है। इस दिन लोग चांदी, सोना, प्लेटिनम, रत्न आदि खरीदते है।
2. रूपचौदस / नरक चतुर्दशी / छोटी दीवाली के रूप में दूसरे दिन ब्रह्म मुहूर्त में जाग कर स्नान करने का महत्त्व होता है। महिलाये इसदिन सोलह श्रृंगार करती है, मेहंदी आदि लगाकर अपने आप में उत्साहित होती है।
3. अमावस्या तीसरे दिन माता महालक्ष्मी जी का पूजन रात्रि काल में महत्वपूर्ण होता है। इस दिन माता का पूजन करके अपनी सारी धन, संपत्ति माता को सौप देते है। तेल के दीपक और घी के दीपक जलाकर माता को प्रसन्न करते है। उत्साह वश फटाखे आदि फोड़ते है। एक दूसरे को बधाईयां देते है, और शुभता कि कामनाये करते है।
4. माता अन्नपूर्णा चौथे दिन आकूत का पूजन और गोवर्धन पूजन करते है ताकि सदा अन्न का भण्डार भरा रहे। कुछ लोग इसदिन चिरैयागौर का पूजन मौन रहकर भी करते है।
5. भाई-दूज पांचवे दिन भाई – बहनो का पवित्र पर्व मानते है।

महालक्ष्मी बीज मंत्र – ॐ श्री श्री महालक्ष्म्यै नमः॥
ललिता त्रिपुर सुंदरी बीज मंत्र – ॐ श्री श्री ललिता महा त्रिपुर सुन्दर्य श्री महालक्ष्म्यै नमः ॥
महालक्ष्मी महा मंत्र – ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः ॥
महालक्ष्मी गायत्री मंत्र – ॐ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात ॥
महालक्ष्मी पूरोणोक्त मंत्र – ॐ या देवी सर्वभूतेषु लक्ष्मी रुपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
धन समृद्धि हेतु वशीकरण मंत्र – ॐ नमो पद्यावती पद्यनये लक्ष्मी दायिनी वांक्षाभूत प्रेत विध्यवासिनी सर्व शत्रु संहारिणी दुर्जन मोहिनी ऋद्धि-सिद्धि वृद्धि कुरु कुरु स्वाहा । ॐ क्लीं श्रीं पद्मावत्यै नमः॥
धनतेरस और दीपावली में दीप दान मंत्र – मृत्युना पाशदण्डाभ्याम् कालेन श्यामपा सह । त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम ॥

॥ दिपावली पूजन प्रारम्भ ॥

श्री लक्ष्मी गणेश पूजा॥

पवित्रकरणम् –
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा।
य: स्मरेत् पुण्डरीकाक्षं स: बाह्याभंतरः शुचिः॥

आचम्य –
ॐ केशवाय नमः । ॐ माधवाय नमः । ॐ नारायणाय नमः । ॐ हृषीकेशाय नमः हाथ धो लें।

आसन शुद्धि –
ॐ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥

पवित्री (पैती) धारणम् –
ॐ पवित्रे स्त्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तम्य ते पवित्रपते पवित्र पूतस्य यत्काम: पूनतच्छकेयम्॥

यज्ञोपवित –
ॐ यज्ञोपवीतं परमं पवित्रं प्रजा पतेर्यत सहजं पुरुस्तात ।
आयुष्यं मग्रंप प्रतिमुन्च शुभ्रं यज्ञोपवितम बलमस्तु तेजः ॥

शिखाबन्धन –
ॐ चिद्रुपिणि महामाये दिव्यतेजः समन्विते ।
तिष्ठ देवि शिखामध्ये तेजोवृद्धि कुरुव मे॥

तिलक / चन्दन –
चन्दनस्य महत्पुण्यम् पवित्रं पापनाशनम्।
आपदां हरते नित्यम् लक्ष्मी तिष्ठ सर्वदा ॥

ॐ आदित्या वसो रुद्रा बिद्येदेवा मरुद्रणाः।
तिलकन्ने प्रयच्छन्तु धर्मकामार्थसिद्धये ॥

रक्षाबन्धनम् –
येन बद्धो बलि राजा, दानवेन्द्रो महाबलः।
तेन त्वाम् प्रतिबद्धनामि रक्षे माचल माचलः ॥

ॐ व्रतेन दीक्षामप्नोति, दीक्षयाऽऽप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति, श्रद्धया सत्यमाप्यते ॥

स्वस्ति-वाचन –
ॐ आ नो भद्राः क्रतवो यन्तु विशनोऽदब्धासो अपरीतास उध्दिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारों दिवे दिवे ॥१॥

देवानां भद्रा सुमतिर्ऋ जूयतान्देवाना राति रभिनो निवर्तताम्।
देवाना सख्यमुपसेदिमा वयन्देवान आयुः प्रतिरन्तु जीवसे ॥२॥

तान्पूर्वया निविदा हूमहेवयम् भगम् मित्रमदितिन् दक्षमस्रिधम्।
अर्यमणं वरुण सोम मश्विना सरस्वती नः सुभगा मयस्करत् ॥३॥

तन्नो वातो मयो भुवातु भेषजन् तन्माता पृथिवी तत्पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयो भुवस्तदश्विना शृणुतन् धिष्ण्या युवम् ॥४॥

तमीशानन् जगतस् तस्थुषस्पतिन् धियञ्जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥५॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥६॥

पृपदश्वा मरुतः पृश्निमातरः शुभं य्यावानो विदथेषु जग्मयः ।
अग्निजिव्हा मनवः सूरचक्षसो विश्नो देवा अवसा गमन्निह ॥७॥

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये माक्षभिर्यजत्राः।
स्थिरे रङ्गैस्तुष्टुवा सस्तनूभिर् व्यशेमहि देवहितं यदायुः॥८॥

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसन् तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मानो मध्यारी रिपतायुर्गन्तीः ॥९॥

अदितिद्यौ रदितिरन्त रिक्षमदितिर् माता सपिता सपुत्रः।
विश्वे देवा अदिति: पञ्चजना अदितिर जातमदितिर् जनित्वम् ॥१०॥

द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः
शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शानिर्ब्रह्म शान्तिः सर्व
शान्तिः शान्तिरेव शान्ति: सामा शान्तिरेधि ॥११॥

यतो यतः समीहसे ततो नो अभयं कुरु।
शन्नः कुरु प्रजाभ्योऽभयन्नः पशुभ्यः ॥१२॥

ॐ श्रीमन महागणाधीपतये नमः, इष्ट देवताभ्यो नमः, कुल देवताभ्यो नमः, ग्राम देवताभ्यो नमः, स्थान देवताभ्यो नमः, वास्तु देवताभ्यो नमः, वाणी हिरण्यगर्भाभ्याम नमः, लक्ष्मी नारायणाभ्याम नमः, उमा महेश्वराभ्याम नमः, शची पुरंदाराभ्याम नमः, मातृ पितृ चरण कमलेभ्यो नमः, सर्वेभ्यो देवेभ्यो नमः, सर्वेभ्यो ब्राह्मणेभ्यो नमः, एतत कर्म प्रधान देवताभ्यो नमः ।

सुमुखश्चै एकदंतश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥

धुम्रकेतुर् गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

शुक्लाम्बरधरम देवं शशि वर्णं चतुर्भुजम ।
प्रसन्नवदनं ध्यायेत सर्व विघ्नोपशान्तये ॥

अभीप्सितार्थ सिद्ध्यर्थ पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः॥

सर्वमंगलमांगल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तु ते ॥

सर्वदा सर्व कार्येषु नास्ति तेषाममंगलम।
येषां हृदयस्थो भगवान मंगलायतनो हरीः ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैववलम तदेव लक्ष्मीपते तेन्नी युगं स्मरामि॥

वक्रतुंड महाकाय सूर्य कोटि समप्रभ ।
निर्विन कुरुमे देव सर्व कार्येषु सर्वदा ॥

संकल्प –
ॐ विष्णुर्विष्णुर्विष्णुः, ॐ श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणोऽहि द्वितीये परार्धे श्री श्वेतवाराहकल्पे वैवस्वत मन्वन्तरे, अष्टाविंशतितमे युगे कलियुगे, कलिप्रथमचरणे भारतवर्षे जम्बुद्वीपे भरतखण्डे आर्यावर्तान्तर्गत ब्रह्मवर्तेकदेशे अमुकक्षेत्रे, अमुकदेशे, अमुकनामि नगरे, वौद्धावतारे अमुक शके, अमुकायने, अमुक नाम संवत्सरे, दक्षिणायने, मासानां मासोत्तमे मासे कार्तिक मासे, कृष्ण पक्षे, अमावस्या तिथौ, अमुक वासरे, अमुक नक्षत्रे, यथा राशि स्थिते सूर्य, यथा यथा राशि स्थितेषु शेषेषु ग्रहेषु सत्सु यथा लग्न, मुहूर्त, योग, करणान्वितायाम् एवं ग्रह गुण विशेषण विशिष्टायां शुभ पुण्य पर्वणि श्रुति-स्मृति-पूराणोक्तफल प्राप्तिकामः अमुक गोत्रः, अमुक नामाहम्, मम सकुटुम्बस्य सपरिवारस्य लोककल्याण आत्मकल्याणाय, भविष्य उज्जवल कामनापूर्तये दीर्घ-आयु आरोग्य पुत्र-पौत्र-धन-धान्यादि समृद्ध्यर्थे, वर्तमाने अस्मिन व्यापारे शुभपूर्वक चतुर्विध लक्ष्मी वृध्यर्थम् आगतानां संरक्षणार्थम् च गौरी-गणपति, नवग्रह, कुलदेवतानां पूजन पूर्वकं श्रीमहाकाली, महालक्ष्मी, महासरस्वती आदि देवी देवतानां च प्रसन्नार्थ लक्ष्मी पूजनं करिष्ये ।

पृथ्वी ध्यानम् –
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
ॐ मही द्यौः पृथिवी च न इमं यज्ञ मिमिक्षताम् । पिपृतान्नो भरीमभिः ॥

रक्षा विधानम् –
अप सर्पन्तु ते भूता ये भूता भूमि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥

अपक्रामन्तु भूतानि पिशाया: सर्वतो दिशम्।
सर्वेषाम विरोधेन पूजा कर्म समारभे॥

यदत्र संस्थित भूतं स्थान माश्रित्य सर्वतः।
स्थानं त्यक्त्वा तु तत्सर्व यत्रस्थ तत्र गच्छतु ॥

भूत प्रेत पिशाचाद्या अपक्रामन्तु राक्षसाः।
स्थानादम्माद् ब्रजन्त्यन्यत्स्वी करोमि भुवं त्विमाम् ॥

भूतानि राक्षसा वापि येत्र तिष्ठन्ति केचन ।
ते सर्व प्यपगच्छन्तु देव पूजां करोम्यहम् ॥

दिप स्थापनम् –
शुभं करोतु कल्याणं आरोग्य सुख सम्पदाम् ।
मम बुद्धि विकाशाय दीपज्योतिर्नमोस्तुते ॥

दीपज्योति: परब्रह्म: दीपज्योति: जनार्दनः।
दीपोहरतिमे पापं दीपज्योतिर् नामोस्तुते ॥

सूर्य नमस्कार –
ॐ आकृष्णेन रजसा वर्तमानो निवेश्शयन्नमृतम्मर्त्यञ्च ।
हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥

शंख पूजनम् –
ॐ पांचजन्याय विद्महे पायमानाय धीमहि ।
तनो शंखः प्रचोदयात् ॥

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करें।
निर्मितः सर्वदेवेश्च पाञ्चजन्य नमोस्तुते ॥

घंटी पूजनम् –
आगमार्थ तु देवानां गमनार्थ तु रक्षसाम् ।
घण्टा नाद प्रकुर्वांत पश्चात् घण्टा प्रपूजयेत ॥

कलश ध्यान –
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह वोध्युरुश समा न आयुः प्र मोषीः॥

कलशस्य मुखे विष्णुः कंठे रुद्र समाश्रिताः।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मात्रृ गणाः स्मृताः ॥

कुक्षौ तु सागरा सर्वे सप्तद्विपा वसुंधरा ।
ऋग्वेदो यजुर्वेदः सामवेदौ ह्यथर्वणाः ॥

अंगैश्च सहिता सर्वे कलशन्तु समाश्रिताः।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा॥

आयान्तु देवपूजार्थ दुरितक्षयकारकाः, गंगे च यमुने चैव गोदावरि
सरस्वति । नर्मदे सिन्धुकावेरि जलेऽस्मिन संनिधिं कुरु॥

अस्मिन कलशे वरुणं सांड्ग सपरिवांर सायुधं सशक्तिकमावाहयामि। ॐ भूभुर्व: स्व: भो वरुण ! इहागच्छ इह तिष्ठ स्थापयामि, पूजयामि मम पूजां गृहाण, ॐ अपां पतये वरुणाय नमः ॥

कलश चतुर्दिक्षु चतुर्वेदान्यूजयेत् (कलश के चारो तरफ कुंकुम एवं चावल लगा दें)

पूर्व ऋग्वेदाय नमः।
दक्षिण यजुर्वेदाय नमः।
पश्चिम सामवेदाय नमः।
उत्तर अथर्वेदाय नमः।
कलश के ऊपर ॐ अपाम्पतये वरुणाय नमः।

गणेश ध्यानम् –
ॐ गणाना त्या गणपति हवामहे, प्रियाणान्त्या प्रियपति हवामहे,
निधीनान्त्वा निधिपति हवामहे, बसा: मम आहमजानि गर्भधम् मात्वमजासि गर्भधम् ॥

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥

वक्रतुण्ड महाकाय सूर्य कोटी समप्रभा
निर्विघ्नं कुरु मे देव सर्व-कार्येशु सर्वदा ॥

ॐ भूभुर्व: स्व: सिद्धि बुद्धि सहिताय गणपतये नमः । गणपतिम् आवाहयामि स्थापयामि पूजयामि ।

गौरी ध्यानम् –
ॐ हेमद्रितनाया देवीं वरदां शंकरप्रियां ।
लम्बोदरस्य जननीं गौरीं आवाह्याम्यहम् ॥

ॐ अम्बे अम्बिके अम्बालिके नमानपति कश्चन ।
ससत्स्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥

ॐ भूर्भुव: स्व: गौर्यै नमः । गौरीम् आवाहयामि स्थापयामि पूजयामि ।

षोडश मातृका पूजनम् –

अब षोडश मातृका पूजन करें । षोडश मातृका पूजन के लिये यहॉ क्लिक करें। षोडश मातृका पूजन विधि

नवग्रह पूजनम् – 

अब नवग्रह पूजन करें । नवग्रह पूजन के लिये यहॉ क्लिक करें। नवग्रह पूजन विधि

 महाकाली ध्यानम् –

खड्ग चक्र गदेषु चाप परिधाञ्छूले भुशुण्डी शिरः,
शङ्ख सन्दधतीं करविनयनाम् सर्वाग भूषावृताम् ॥

नीलाश्मद्युति मास्य पाद दशकां सेवे महाकालिकाम,
याम स्तोत्स्वपिते हरी कमलजी हन्तुं मधु कैटभम् ॥

महालक्ष्मी ध्यानम् –
ॐ या सा पद्मासनास्था विपुल कटितटि पापनायताक्षी।
गम्भीरावर्त नाभि स्तनभरनमिता शुभ्र वस्त्रोत्तरीया॥

या लक्ष्मी: दिव्यरुपैः मणिगण खचिनैः स्नापिता हेम कुंभैः।
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वांगल्य युक्ता ॥

महासरस्वती ध्यानम् – 
या कुन्देन्दुतुषारहारधवला या शुभ्रवत्तावता।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ॥

या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥

प्राणप्रतिष्ठा –
ॐ मनो जूतिर्जुषता माज्यस्य बृहस्पतिर्यजमिमं तनोत्वरिष्टं यज्ञ गुंग समिमं दधातु ।
विश्वे देवास सऽइह मादयन्तामोम्प्रतिष्ठ॥

अस्यै प्राणा: प्रतिष्ठतु अस्यै प्राणा: क्षरन्तु च ।
अस्यै देवत्वम् आचार्य मामहेति च कश्चन ॥

आह्वानम् –
ॐ ता म आवह जात-वेदो, लक्ष्मीमनप-गामिनीम् ।
यस्यां हिरण्यं विन्देयं, गामा पुरूयानहम् ॥

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि गुंग सर्व तस्कृत्वाऽत्यतिष्ठ दशाङ्गुलम् ॥

आसनम् –
ॐ अश्वपूर्वां रथ-मध्यां, हस्ति-नाद-प्रमोदिनीम्।
श्रियं देवीमुपह्वये, श्रीर्मा देवी जुषताम्॥

ॐ पुरुषऽएवंद गुंग सर्वय्यद्भूतं यच्च भाव्यम् ।
उतामृ तत्वस्ये शानो यदन्नेना तिरोहति ॥

पाद्यम् –

ॐ कांसोऽस्मि तां हिरण्य-प्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीं।
पद्मे स्थितां पद्म-वर्णां तामिहोपह्वये श्रियम्॥

ॐ एतावानस्य महिमातो ज्यााँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्या मृतं दिवि ॥

अर्घ्यम् –
ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव-जुष्टामुदाराम्।
तां पद्म-नेमिं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि॥

ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहा भवत्पुनः।
ततो विष्ण्वङ् व्यक्रा मत्सा शना नशनेऽ अभि ॥

आचमनम् –
ॐ आदित्य-वर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥

ॐ ततो विराड जायत विराजोऽअधि पूरुषः ।
स जातोऽअत्य रिच्यत पश्चाद भूमिमथो पुरः॥

स्नानम् –
ॐ मन्दाकिन्या समानीतैः हेमाम्भोरुह-वासितैः
स्नानं कुरुष्व देवेशि, सलिल च सुगन्धिभिः॥

ॐ तस्माद्यज्ञात् सर्व हुतः सम्भूर्त पृषदाज्यम्।
पशूस्ताँश्चक्रे वायव्या नारण्या ग्राम्याश्च ये॥

दुग्ध स्नानम् –
ॐ पयः पृथिव्याम् पयऽओषधीषु पयो दिव्यन्तरिक्शे पयोधाः ।
पयस्वती: प्रदिश: सन्तुह्यम॥

कामधेनु समुद्धतं सर्वेषां जीवनं परम् ।
पावनं यज्ञ हेतुश्च पय: स्नानाय गृहताम् ॥

दधि स्नानम् –
ॐ दधि क्राव्णो अकारिपं जिष्णोरवस्य वाजिनः ।
सुरभि नो मुखा करत् प्रण आयु गुंग पितारिपत् ॥

पपसस्तु समुध्दुन मधुराप्ल शशिप्रभम्।
दध्यानित मया देव स्ननार्थ प्रतिगृह्यताम् ॥

घृत स्नानम् –
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम् वस्य धाम ।
अनुष्वधमा वह मदयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्॥

नवनीत समुत्पन्न सर्व संतोष कारकम् ।
घृतं तुभ्यं प्रदास्यामि मानार्थ प्रतिगृह्यताम् ॥

मधु स्नानम् –
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माद्धवीनः सन्त्योषधीः ।
मधु नक्त मुतो पसो मधुमत् पार्थिव गुंग रजः। मधु द्यौरस्तुनः पिता।

मधुमान्नो व्यनस्पति मधुमाँ अस्तु सूर्यः।
माध्वीर्गावो भवन्तु नः ॥

पुष्प रेणु समुत्पन्न सुस्वाद मधुर मधु ।
तेजः पुष्टिकरं दिव्य स्ननार्थ प्रतिगृह्यताम्॥

शर्करा स्नानम् –
ॐ अपा गुंग रसमुद् वपस गुंग सूर्ये सन्तः समाहितप । अपा गुंग रसस्य यो रसस्तम् वो गृह्णाम्युत्तम मुपयाम गृहीतो सिन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनि रिन्द्राय त्वा जुष्टतमम् ॥

इक्षुसार समुध्दूता शर्करा पुष्टि कारिका।
मलापहारिका दिव्य स्नानार्थ प्रतिगृह्यताम् ॥

पंचामृत स्नानम् –
ॐ पंचनद्यः सरस्वतीमपियान्ति सस्रोतसः।
सरस्वती तु पंचधा सो देशे भवत्सरित॥

पयो दधि घृतं मधु चैव च शर्करा मधु संयुतम् ।
पंचामृतं मयानीतं स्नानार्थ प्रतिगृह्यताम् ॥

अभिषेकम् –

यहाँ पर श्री सूक्त के सोलह मंत्रो से अभिषेक किया जाता है। श्री सूक्त के मंत्रो के लिए यहॉ क्लिक करें। श्री सूक्त अर्थ सहित

गन्धोदक स्नानम् –
ॐ अ गुंग शुनाते अ गुंग शुः पुच्या परुपा परुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥

ॐ गन्ध-द्वारां दुराधर्षां, नित्य-पुष्टां करीषिणीम्।
ईश्वरीं सर्व-भूतानां, तामिहोपह्वये श्रियम्॥

शुद्धोदक स्नानम् –
ॐ शुद्धवाल: सर्वशुद्धवालो मणिवालस्य अश्विनाः।
श्वेतः श्वेताक्षो रुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्ता रौद्रा नमोरूपा: पार्जन्याः ॥

शुद्धं यत् सलिलं दिव्यं गंगाजल सम स्मृतम् ।
समर्पितं मया भक्त्या शुद्ध स्नानार्थ प्रतिगृह्यताम् ॥

वस्त्रम् –
ॐ उपैतु मां दैव-सखः, कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिं वृद्धिं ददातु मे॥

सर्वभूषाधिके सौम्ये लोक लज्जा निवारणे।
मयोपपादिते तुभ्यं वासप्सी प्रतिगृह्यतां ॥

उपवस्त्रम् –
ॐ सुजातो ज्योतिषा सह शर्म्म वरूथमासदत्स्वः ।
वासोग्ने विश्वरूप गुंग संव्ययस्व विभावसो॥

उपवस्त्रं प्रयच्छामि देवाय परमात्मने।
भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥

यज्ञोपवितम् –
ॐ यज्ञोपवीतं परमं पवित्रं, प्रजापतेर्यत्सहर्ज पुरस्तात् ।
आयुष्यमय प्रतिमुञ्च शुभ्र, यज्ञोपवीतं बलमस्तु तेजः॥

ॐ तस्मादश्चाऽ अजायन्त ये के घोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्मा ज्जाताऽअजावयः ॥

गंध/ चंदनम् –
ॐ गन्ध-द्वारां दुराधर्षां, नित्य-पुष्टां करीषिणीम्।
ईश्वरीं सर्व-भूतानां, तामिहोपह्वये श्रियम्॥

ॐ त्वां गन्धर्वा अखनस्त्वां मिन्द्रस्त्वां बृहस्पतिः।
त्वामोषधे सोमो राजा विद्वान् यक्ष्माद् मुच्यत् ॥

अक्षतम् –
ॐ अवक्षन्नमीमदन्त ह्यवप्प्रियाऽअधुषत।
अस्तोपत स्वभानवो विप्रा न्नविष्ठया मती योजान् विन्द्रतेहरी ॥

अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता: सुशोभिता:।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥

सुगन्ध द्रव्यम् –
ॐ त्रयम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम ।
उर्वारुकमिव बन्धनान मृत्योर्मुक्षीय मामृतात ॥

ॐ अ गुंग शुनाते अ गुंग शुः पृच्यतां परुषा परुः।
गन्धस्ते सोम मवतु मदाय रसोऽ अच्च्युतः॥

आभुषणम् –
ॐ क्षुत्-पिपासाऽमलाम् ज्येष्ठाम, अलक्ष्मी शयाम्यहम् ।
अभूतिम समृद्धिं च, सर्वान् निर्णुद में गृहात् ॥

ॐ सौभाग्य सूत्रम वरदे सुवर्ण मणि संयुतम ।
कण्ठे वध्नामि देवेशि सौभाग्यम देहि मे सदा ॥

काजल –
ॐ चक्षुर्भ्याम कज्जलम रम्यम सुभगे शान्ति कारकम ।
कर्पूज्योति समुत्पन्नम गृहाण परमेश्वरि॥

पुष्पम् –
ॐ मन्दार पारिजाताद्या पाटली केतकी तथा।
मस्वा मोगर चैव गृहाणाशु नमो नमः॥

पुष्पमालाम् –
ॐ मनसः काममाकूति, वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः॥

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि गृह्यन्ता पूजनाय भोः॥

दुर्वाम् –
ॐ काण्डात काण्डात प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥

तृणकान्त मणि प्रख्य हरित अभिः सुजातिभिः।
दूर्वाभिराभिर्भवतीम पूजयामि महेश्वरि ॥

बिल्वपत्रम् –
ॐ नमो बिल्मिने च कवचिने च नमो व्वर्मिणे च वरूथिने च नमः
श्रुताप च श्रुतसेनाय च नमो दुन्दुभ्यरय चाहनन्यायच ॥

ॐ त्रिदलं त्रिगुणाकार त्रिनेत्रं च त्रिधायुधम ।
त्रिजन्मपाप संहारमेक विल्वं शिवार्पणम ॥

सौभाग्य द्रव्यम् –
ॐ अहिरिव भोगैः पर्येति बाहुन् ज्यावा हेतिम् परिबाधमानः।
हस्तध्नो विश्वा वयुनानि विद्वान् पुमान पुमा गुंग सं परिपातु विश्वतः ॥

अवीरं च गुलालं च चोवा चन्दन मेव च।
अवीरेणर्चितो देव अत:शान्ति प्रयच्छमे॥

हरिद्राचूर्ण –
ॐ हरिद्रा रचिते देवि ! सुख सौभाग्य दायिनी।
तस्मात त्वाम पूज्याम यत्र सुखम शान्तिम प्रयच्छ में ॥

कुंकुमम् –
ॐ कुंकुमं कामना दिव्यं कामना काम सम्भवम ।
कुंकुमेनार्चितो देव गृहाण परमेश्वर॥

सिन्दूरम् –
ॐ सिन्धोरिव प्प्राद्ध्वने शूघनासो व्वातप्प्रमियः पतयन्ति यहाः ।
घृतस्य धाराऽअरुषो नब्बाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः॥

ॐ सिन्दूर शोभनं रक्त सौभाग्य सुखवर्धनम् ।
शुभदं कापदं चैव सिन्दूर प्रतिगृह्यताम् ॥

अंग पूजा –
चावल, पुष्प, चंदन लेकर प्रत्येक मंत्र पर बोलते हुए महालक्ष्मी जी के पास छोडें।
ॐ चपलायै नमः। पादौ पूजयामी
ॐ चंचलायै नमः। जानुनी पूजयापी
ॐ कमलायै नमः। कटि पूजयामी
ॐ कात्यायन्यै नमः। नाभिं पूजयामी
ॐ जगन्मात्रे नमः। जठरं पूजयामी
ॐ विश्ववल्लभायै नमः। वक्षः स्थल पूजयामी
ॐ कमलवासिन्यै नमः। हस्ती पूजयामी
ॐ पद्याननायै नमः। मुखं पूजयामी
ॐ कमलपत्राक्ष्य नमः। नेत्रयं पूजयामी
ॐ श्रियै नमः शिरः। पूजयामी
ॐ महालक्ष्म्यै नमः। सर्वांग पूजयाम

अष्टलक्ष्मी ध्यानम् –
धनं धान्यं धरां धर्मम् कीर्तिर्मायर्यशः श्रियम्।
पुत्रान् सर्वकामांश्च अष्टलक्ष्मी प्रयच्छ मे॥

पंकजं देवि सत्यज्य मम वेश्मनि संविश।
यथा सपूत्र भूत्योहं सुखी स्याम् त्वत्प्रसादतः ॥

१. पूर्व ॐ आद्य लक्ष्म्यै नमः।

२. आग्नेय ॐ विद्या लक्ष्म्यै नमः ।

३. दक्षिण ॐ सौभाग्य लक्ष्यै नमः।

४. नैर्ऋत्य ॐ अमृत लक्ष्म्यै नमः ।

५. पश्चिम ॐ काम लक्ष्म्यै नमः।

६. वायव्य ॐ सत्य लक्ष्म्यै नमः ।

७. उत्तर ॐ भोग लक्ष्म्यै नमः ।

८. ईशान ॐ योग लक्ष्म्यै नमः ।

अष्टसिद्धि ध्यानम् –
ॐ अणिमा महिमा चैव लघिमा गरिमा तथा।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥

१. पूर्व ॐ अणिम्ने नमः ।

२. आग्नेय ॐ महिम्ने नमः।

३. दक्षिण ॐ गरिम्णे नमः ।

४. नैर्ऋत्य ॐ लघिम्ने नमः।

५. पश्चिम ॐ प्राप्त्यै नमः ।

६. वायव्य ॐ प्रकाम्यै नमः।

७. उत्तर ॐ ईशितायै नमः।

८. ईशान ॐ वशितायै नमः।

धूपम् –
ॐ कर्दमेन प्रजा-भूता, मयि सम्भ्रम-कर्दम।
श्रियं वासय मे कुले, मातरं पद्म-मालिनीम् ॥

ॐ वनस्पति रसोद्भुतो गन्धाढयो गन्धः उत्तमः ।
आध्येयः सर्व देवानां धूपोऽय प्रतिगृह्यताम् ॥

दीपम् –
ॐ आपः सृजन्तु स्निग्धानि, चिक्लीत वस मे गृहे।
नि च देवी मातरं श्रियं वासय मे कुले॥

ॐ अग्निज्योति: ज्योतिरग्निः स्वाहा सूर्यो ज्योति: ज्योति: सूर्यः स्वाहा।
अग्निर्व्वच्चों ज्योतिर्व्वर्च्च: स्वाहा सूर्योव्वर्च्चो ज्योतिर्व्वर्च्च: स्वाहा ।
ज्योतिः सूर्य्य: सूर्य्योज्योतिः स्वाहा ।

नैवद्यम् –
ॐ आर्द्रां यः करिणीं यष्टिं, पिंगलां पद्म-मालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो ममावह॥

ॐ नाभ्या आसीदन्तरिक्ष गुंग शीष्णों द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकौ अकल्पयन् ॥
प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा, उदानाय स्वाहा, समानाय स्वाहा ॥

ऋतुफलम् –
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।
बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुंग ह सः ॥

फलेन फलितं सर्वं त्रैलोक्य सचराचरम् ।
तस्मात् फल प्रदानेन पूर्णाः सन्तु मनोरथाः ॥

ताम्बूल / पूगीफलम् –
ॐ आर्द्रा यः करिणी यष्टिं, सुवर्णां हेम-मालिनीम् ।
सूर्या हिरण्मयीं लक्ष्मी, जातवेदो ममावह ॥

ॐ पूगीफलं महद्दिव्यं नागवल्ली दलैर्युतम् ।
एलादिचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

दक्षिणा-
ॐ तां म आवह जात-वेदो लक्ष्मीमनप-गामिनीम्
यस्या हिरण्य प्रभूत गावो दास्योऽश्चान् विन्देय पुरूषानहम् ॥

ॐ हिरण्यगर्भः समवर्तताग्ने भूतस्य जातः पतिरेक आसीत्।
सदाधार पृथिवीं द्यामुतेमा कस्मै देवाय हविषा विधेम् ॥

कपूर आरती –
ॐ आ रात्रि पार्थिव गुंग रजः पितुरप्रायि धामभिः।
दिवः सदा गुंग सि वृहती वितिष्ठस आत्वेप वर्तते तमः॥

इद गुंग हविः प्रजनर्म्म अस्तु दशवीर गुंग सर्वगण गुंग स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोक सन्य भयसनिः ॥

अग्निः प्रजां बहुलं में करोत्वनं पयो रेतोऽ अस्मासु धत्त ।
अग्निदेवता वाता देवता, सूर्यो देवता चन्द्रमा देवता,

वसवो देवता रुद्रा देवता, दित्या देवता मरुतो देवता,
विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्।
सदा बसन्त हृदया रविन्दे भवं भवानी सहित नमामि ॥

प्रदक्षिणा –
ॐ ये तीर्थानि प्रचरन्ति सृका हस्ता निषड़्गिणः।
तेषा गुंग सहस्त्र योजनेऽवधन्वा नितन्मसि ॥

प्रार्थना –
ॐ सुरासुरन्द्रादिकिरीट मौक्तिकैर्यक्तं सदायत्रय पादपकजम्।
परावरंपातुवर सुमंगल नमामिभक्त्या तव कामसिद्धये ॥

अर्पण –
अनेन कृतेन पूजनेन भगवती महालक्ष्मीदेवी प्रीयताम्, न मम ।

॥ श्री महाकाली (दवात) पूजनम्॥

स्याही युक्त दवात (स्याही की बोतल) में मौली लपेट कर सिंदूर से स्वस्तिक बना दें एवं महालक्ष्मी जी के सामने रख दें।
पंचोपचार या षोडशोपचार पूजन कर दें।

ध्यानम् –
ॐ कालिके त्वं जगन्मातर्मसिरुपेण वर्तसे ।
उत्पन्ना त्वं च लोकाना व्यवहारप्रसिद्धये ॥ ॐ श्री महाकाल्यै नमः ।

प्रार्थना –
या कालिका रोगहरा सुवन्द्या भक्तै: समस्तै र्व्यवहारक्षै:।
जनैर्जनानां भयहारिणी च सा लोकमाता मम सौख्यदास्तु ॥

॥ श्री महाकाली (लेखनी) पूजनम्॥

लेखनी (कलम) में मौली लपेट कर महालक्ष्मी जी के सामने रख दें।
पंचोपचार या षोडशोपचार पूजन कर दें।

ध्यानम् –
ॐ लेखिनी निर्मिता पूर्वम् ब्रह्मणा परमेष्ठिना।
लोकानां च हितार्थाय तस्मात्तां पूजयाम्यहम् ॥ ॐ लेखन्यै नमः।

प्रार्थना –
शास्त्राणां व्यवहाराणां विद्यानामाप्युयाद्यातः।
अतस्त्वां पूजयिष्यामि मम हस्ते स्थिरा भव ॥

॥ श्री महा सरस्वती (बही खाता) पूजनम् ॥

बहीखाता पर केसर युक्त स्वस्तिक बनाएं। हल्दी की गांठ, धनिया, चावल, कमलगट्टा. दुर्वा और कुछ सिक्के रखें।
पंचोपचार या षोडशोपचार पूजन कर दें।

ध्यानम् –
शुक्ला ब्रह्मा विचार सार परमामाद्यां जगद्व्यापिनीं।
वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम् ॥

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्।
वन्दे तां परमेश्वरी भगवतीं बुद्धिप्रदां शारदाम् ॥ ॐ सरस्वत्यै नमः।

प्रार्थना –
ॐ सरस्वति शुक्लवणे वीणा पुस्तक धारिणि।
त्रैलोक्य वन्दितं देवि प्रसन्ना भव सर्वदा ॥
कृतेन अनेन पूजनेन महासरस्वती देवी प्रीयताम् न मम ।

॥ कुबेर ( तिजोरी) पूजनम् ॥

तिजोरी (संदक) के ऊपर स्वस्तिक बनाएं।
पंचोपचार या षोडशोपचार पूजन कर दें।

ध्यानम् –
आवाहयामि देव त्वामिहायाहि कृपां कुरु ।
कोशं वर्द्धय नित्यं त्वं परिरक्ष सुरेश्वर ॥

प्रार्थना –
धनाध्यक्षाय देवाय नर यानोप वेशिने ।
नमस्ते राज राजाय कुबेराय महात्मने ॥

॥ तुला (तराजू) पूजनम् ॥

सिन्दूर से तराजू के ऊपर स्वस्तिक बनाएं।
पंचोपचार या षोडशोपचार पूजन कर दें।

ध्यानम् –
ॐ नमस्ते सर्व देवानां शक्तित्वे सत्यमाश्चिता।
साक्षिभूता जगद्धात्री निर्मिता विश्व योनिना ॥ ॐ तुलाधिष्ठातृ देवताभ्यो नमः ।

प्रार्थना –
ॐ त्वं तले सर्व देवानाम् प्रमाणमिह कीर्तित ।
अत्स्वां पूजयिष्यामि धर्मार्थ सुख हेतवे ॥

॥ दीपमालिका (दीपक) पूजनम् ॥

एक थाली या परात में ११, २१ या उससे अधिक दीपक तिल के तेल से प्रज्वलित करके महालक्ष्मी जी के पास रख दें।
पंचोपचार या षोडशोपचार पूजन कर दें।

संकल्प –
अद्य शुभ पुण्य तिथौ अमुक गोत्रः अमुक नामाहं गृहे लक्ष्मी वृद्धि हेतवे अलक्ष्मी निस्सारणार्थम् अखण्डदीप स्थापनं पूजनम् च करिष्ये ।

ध्यानम् –
ॐ भो दीप ब्रह्मरुप त्वं ह्यन्धकार विनाशक ।
इमा मया कृतां पूजा गृहन्तेजः प्रवर्धप॥ ॐ दीपावल्यै नमः ।

प्रार्थना –
ॐ त्वं ज्योतिस्त्वं रविशनद्रो विद्युदग्निश्च तारकाः।
सर्वेषां ज्योतिषां ज्योतिर्दीपावल्यै नमो नमः ॥

गज ध्यानम् –
ॐ गजराज नमस्तेस्तु नरकार्णवतारक।
सुखदः पुत्र पौत्रादेः सर्वदा बृद्धि हेतवे ॥

दूकान की पूजा –
ॐ विपणि त्वं महादेवि धन धान्य प्रवर्धिनि ।
मगृहे सुयशो देहि धन धान्यादिकं तथा ॥ विषण्यधिष्ठातृ देवताभ्यो नमः।

भण्डार गृह –
ॐ सुवर्णकुष्यं द्रव्याणां स्थानं कोसगृहं हि नः ।
प्रसादाद् धनदस्यैव नित्यं भवतु वृद्धिमत ॥

धान्य –
ॐ ब्रीह्यादीनि च धान्यानि प्राणिनां प्रीणनाय वे।
ऋषयः पितरो देवा ऋद्धिं कुर्वन्तु तेषु नः॥

गणेश आरती –

अब गणेश जी की आरती करें। गणेश आरती के लिये यहॉ क्लिक करें। श्री गणेश आरती

लक्ष्मी आरती –

अब लक्ष्मी जी की आरती करें। लक्ष्मी आरती के लिये यहॉ क्लिक करें। श्री लक्ष्मी आरती

जल आरती –
ॐ द्यौः शान्तिरन्तरिक्ष गुंग शान्तिः पृथ्वी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वेदेवा शान्तिर्ब्रह्म शान्तिः सर्व गुंग शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥

पुष्पांजलि –
या श्री: स्वयं सुकृतिना भवनेष्वलक्ष्मी: पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नता: स्म परिपालय देवि विधम्॥

ॐ यज्ञेन यज्ञ मयजन्त देवा स्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

ॐ राधाधिराजाय प्रसहा साहिने । नमो वयं वैश्रणाय कुर्महे । समै कामान् कामकामाय मह्यम् । कामेश्वरौ वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः।

ॐ स्वास्ति साम्राज्य भोज्यं स्वराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्य माधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः । सार्वायुष आन्तादा परार्धात ।

पृथिव्यै समुद्र पर्यान्ताया एकराडिति तदप्येष श्लोकोऽभिगितो मरुतः परिवेष्टारो
मरुतस्या बसन्नगृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इतिः॥

ॐ विध तश्चक्क्षुरुत विश्वतो मुखो विश्वतो वाहुरूत विश्वतस्पात ।
सम्बाहूभ्यां धमति सम्पत्त्रैर्द्यावा भूमी जनयंदेव एकः ॥

नानासुगन्धि पुष्पाणि यथा कालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तं गृहाण परमेश्वर ॥

ॐ श्री महालक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॥

प्रदक्षिणा –
ॐ ये तीर्थानि प्रचरन्ति सृका हस्ता निषड्गिणः ।
तेषा गुंग सहस योजनेऽवधन्या नितन्मसि ॥
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणं पदे पदे॥

समर्पण –
अनेन कृतेन पूजनेन भगवती महालक्ष्मीदेवी प्रीयताम्, न मम । महालक्ष्म्यै अर्पणमस्तु ।

आचार्य दक्षिणा –
अद्य पूर्वोच्चरित विशेषण विशिष्टायां शुभ पूण्य तिथौ अमुक गोत्रः अमुक नाम्नः अस्मिन पुण्य पर्वणि आवाहित देवतादीनां पूजन प्रतिष्ठार्थम् शुभ फल प्राप्त्यर्थं इदं दक्षिणा द्रव्यं गोत्राय शर्मणे ब्राह्मणाय तुभ्यं संप्रददे।

विसर्जन –
ॐ यान्तु देव गण: सर्वे, पूजामादाय मामकीम।
इष्ट-काम-समृद्धयर्थ, पुनरागमनाय च ॥

ॐ गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।
यत्र ब्रम्हादयो देवाः तत्र गच्छ हुताशन ॥

प्रार्थना –
प्रमादात् कुर्वतां कर्म प्रच्यवेता ध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥

यस्य स्मृत्या च नामोक्त्यो तपो यज्ञ क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः।

आर्शिवाद-
श्री वर्चस्व मायुष्य मारोग्यं गावधात् पवमानं महीयते ।
धन धान्यं पशुं बहुपुत्र लाभं शतसंवत्सरे दीर्घमायु ॥

ॐ सफला सन्तु पूर्णा : सन्तु मनोरथा :।
शत्रूणां बुद्धि नाशोस्तु मित्राणां मुदयस्तब ॥

इदं फलं मया देव स्थापितम् पुरतस्तव।
तेन में सफला वाप्तिर् भवेत जन्मनि जन्मनि ॥

Diwali Puja Vidhi in Hindi End

Prabhu Darshan- 100 से अधिक आरतीयाँचालीसायें, दैनिक नित्य कर्म विधि जैसे- प्रातः स्मरण मंत्र, शौच विधि, दातुन विधि, स्नान विधि, दैनिक पूजा विधि, त्यौहार पूजन विधि आदि, आराध्य देवी-देवतओ की स्तुति, मंत्र और पूजा विधि, सम्पूर्ण दुर्गासप्तशती, गीता का सार, व्रत कथायें एवं व्रत विधि, हिंदू पंचांग पर आधारित तिथियों, व्रत-त्योहारों जैसे हिंदू धर्म-कर्म की जानकारियों के लिए अभी डाउनलोड करें प्रभु दर्शन ऐप।

Spread the love

8 thoughts on “दीपावली पूजन विधि || Diwali Puja Vidhi in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *